1.1.2
सुखासीनानभ्यगच्छद्ब्रह्मर्षीन् संशितव्रतान्। विनयावनतो भूत्वा कदाचित् सूतनन्दनः॥ २॥
samāsīnānabhyagacchadbrahmarṣīn saṃśitavratān| vinayāvanato bhūtvā kadācitsūtanandanaḥ || 2 ||
सुख-आसीनान् अभ्यगच्छत् ब्रह्मर्षीन् संशितव्रतान्। विनय-अवनतः भूत्वा कदाचित् सूतनन्दनः॥
- सुख-आसीनान् = sitting comfortably
- अभ्यगच्छत् (अभि-गतवान्)= approached (the ones sitting comfortably)
- ब्रह्मर्षीन् = Brahmarshis
- संशितव्रतान् = performing hard austerities (Brahmarshis)
- विनय-अवनतः = politeness-stooping = bending down out of humility
- भूत्वा = having been
- कदाचित् = one day
- सूतनन्दनः = child of a suta, Ugrashravas
One day when the great sages of hard penances were comfortably sitting, Ugrashravas approached them bending down with humility.
कदाचित् विनयावनतः भूत्वा सूतनन्दनः(उग्रश्रवसाः) सुखेन उपविष्टान् संशितव्रतान्(व्रतानि पूरयितुम् तत्परान्) ब्रह्मर्षीन् उपगतवान्।
Comments
Post a Comment