Posts

Showing posts from June, 2024

1.1.2

सुखासीनानभ्यगच्छद्ब्रह्मर्षीन् संशितव्रतान्। विनयावनतो भूत्वा कदाचित् सूतनन्दनः॥ २॥ samāsīnānabhyagacchadbrahmarṣīn saṃśitavratān | vinayāvanato bhūtvā kadācitsūtanandanaḥ   || 2 ||   सुख-आसीनान् अभ्यगच्छत् ब्रह्मर्षीन् संशितव्रतान्। विनय-अवनतः भूत्वा कदाचित् सूतनन्दनः॥ सुख-आसीनान् = sitting comfortably अभ्यगच्छत् (अभि-गतवान्)= approached (the ones sitting comfortably) ब्रह्मर्षीन् = Brahmarshis संशितव्रतान् = performing hard austerities (Brahmarshis) विनय-अवनतः = politeness-stooping = bending down out of humility भूत्वा = having been कदाचित् = one day सूतनन्दनः = child of a suta, Ugrashravas One day when the great sages of hard penances were comfortably sitting, Ugrashravas approached them bending down with humility. कदाचित् विनयावनतः भूत्वा सूतनन्दनः(उग्रश्रवसाः) सुखेन उपविष्टान् संशितव्रतान्(व्रतानि पूरयितुम् तत्परान्) ब्रह्मर्षीन् उपगतवान्।

1.1.1

लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥ १ ॥ lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre || 1 || लोमहर्षणपुत्रः उग्रश्रवाः सूतः पौराणिकः नैमिष-अरण्ये शौनकस्य कुलपतेः द्वादश-वार्षिके सत्रे॥ लोमहर्षण-पुत्रः = son of Lomaharshana उग्रश्रवाः = Ugrasravas सूतः = of the Suta jati पौराणिकः = reciter of the Puranas नैमिष-अरण्ये = in the forest of Naimisha शौनकस्य कुलपतेः = of Shaunaka the Kulapati द्वादश-वार्षिके सत्रे = 12 year yajna at the twelve years' sacrifice of Kulapati Shaunaka, in the Naimish forest, Rishi Lomaharshana's son, Ugrashrava, popularly known as Sauti, well-read in the Puranas, पौराणिकः सूतः लोमहर्षण-पुत्रः उग्रश्रवाः नैमिषारण्ये कुलपतेः शौनकस्य र्द्वादश-वार्षिके सत्रे, 

1.1.0

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।।    nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam   | devīṃ sarasvatīṃ caiva tato jayamudīrayet   || 0 ||   नारायणम् नमस्कृत्य नरम् च एव नर-उत्तमम्। देवीम् सरस्वतीम् च एव ततः जयम् उदीरयेत्।। नारायणम् = Narayana नमस्कृत्य = Having saluted (narayana, nara and saraswati) नरम् = Nara च एव = and नर-उत्तमम् = male-highest => highest of all male beings (Nara) देवीम् = Goddess सरस्वतीम् = Saraswati च एव = and ततः = then जयम् = success उदीरयेत्(उत्-ईरयेत्) (जयम्) = one may cry (success) Having saluted the Supreme Deity (Narayana) and the highest of all male beings (Nara) and also the Goddess of Learning (Sarasvati), let us cry success!   नारायणं, नरोत्तमं नरं, सरस्वतीं देवीं च नमस्कृत्य एव, जयस्य घोषणा ततः कर्तव्या।